Skip to main content

प्रातः स्मरण मंत्र




 *महामृत्युंजय मंत्र* 

ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् 
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः भुवः भूः ॐ सः जूं हौं ॐ


 *गायत्री मंत्र* 
ॐ भूर्भुव: स्व: तत्सवितुर्वरेण्यं 
भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात्।


 *श्री गणेश प्रातः स्मरण मंत्र* 
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिंदूरपूरपरिशोभित गण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डं
आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥

 *श्रीविष्णोः प्रातःस्मरणम्* 
प्रातः स्मरामि भवभीतिमहार्त्तिशान्त्यै
     नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
     चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥


 *श्री शिव प्रातः स्मरण स्तोत्रम्* 
प्रातः स्मरामि भवभीतिहरं सुरेशं 
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं 
संसाररोगहरमौषधमद्वितीयम् ॥

 *देवी दुर्गा* 
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकुण्डलहारभूषाम्।
दिव्या युधोर्जित सुनील सहस्त्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम्॥


 *भगवान सूर्य* 
प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादिहेतुं,
ब्रह्माहरात्मकमलक्ष्यमचिमत्यरूपम्॥


 *त्रिदेवों के साथ नवग्रह स्मरण* 
ब्रह्मा मुरारीस्त्रिपुरांतकारी 
भानु: शाशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्र: शनि-राहु-केतवः
कुर्वन्तु सर्वे मम सुप्रभातम ॥


 *ऋषि-गण* 
भृगुर्वसिष्ठः क्रतुरंगिराश्च
मनु: पुलस्त्य: पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः
कुर्वन्तु सर्वे मम सुप्रभातम्॥


 *प्रकृति* 
पृथ्वी सगन्धा सरसास्तथापः
स्पर्शी च वायुर्ज्वलितं च तेजः।
नभ: सशब्दं महता सहैव
कुर्वन्तु सर्वे मम सुप्रभातम्॥

Comments

Popular posts from this blog

Science & Technology

  Science & Technology Table of Contents (Click on Topic)  Lecture 1- Basics of Cell(Life form) Lecture 2- Genes(DNA, RNA)  Lecture 3- Cell Division/Reproduction and blood types Lecture 4- Types of Vaccine Lecture 5- Human Body Lecture 6- Human Health Lecture 7- Fuels and Engine Lecture 8- Matter, Atom and Elementary Particles Lecture 9- Mobile and Related Technologies Lecture 10- Computer, Display and Battery Lecture 11- Lens, Mirror and Telescope Lecture 12- Space Exploration Lecture 13- Space Exploration(Part 2)   Lecture 14- Defense Sector(Part 1)  Lecture 15- Defense Sector(Part 2)  

आदित्य-हृदय स्तोत्र

॥   विनियोग  ॥ ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष् टुपछन्दः, आदित्येहृदयभूतो भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः। ॥ आदित्यहृदयम्॥ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥  दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥   राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥  आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥   सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥  रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥  एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥   पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥  आ...